|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.94. अध्यायः 094
Mahabharata - Udyoga Parva - Chapter Topics
प्रभाते संध्यामुपतिष्ठमानं श्रीकृष्णमभ्येत्य शकुनिदुर्योधनाभ्यां सभागमनाय प्रार्थनम् ॥ 1 ॥ श्रीकृष्णस्य विदुरेण सह सभाप्रवेशः ॥ 2 ॥ अन्तरिक्षगतेषु नारदादिषु श्रीकृष्णाज्ञया भीष्मेण आसनादिना सत्कृतेषु कृष्णादीनां यथोचितमासनेषूपवेशनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-94-0x(3670)(35109)
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा।
शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी ॥ 5-94-1(35110)
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः।
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ॥ 5-94-2(35111)
कथाभिरनुरूपाभी रक्तस्यामिततेजसः ।
अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी ॥ 5-94-3(35112)
ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ॥
शङ्खदुन्दुमिनिर्घोषैः केशवं प्रत्यबोधयन् ॥ 5-94-4(35113)
तत उत्थाय दाशार्हऋषभः सर्वसात्वताम् ।
सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः ॥ 5-94-5(35114)
कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः।
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः ॥ 5-94-6(35115)
अथ दुर्योधनः कृष्मं शकुनिश्चापि सौबलः।
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥ 5-94-7(35116)
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्।
कुरूश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ॥ 5-94-8(35117)
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः ।
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥ 5-94-9(35118)
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः।
ददौ हिरण्यं वासांसि गाश्चाश्चांश्च परन्तपः ॥ 5-94-10(35119)
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्।
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ॥ 5-94-11(35120)
` तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः ।
वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः ॥ 5-94-12(35121)
शैब्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः ।
मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः ॥ 5-94-13(35122)
दक्षिणं चावहच्छैब्यः सुग्रीवः सव्यतोऽवहत्।
पृष्ठवाहौ रथस्यास्तां मेघपुष्पबलाहकौ ॥ 5-94-14(35123)
विश्वकर्मकृताऽऽपीडा रत्नजालविभूषिता ।
आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत ॥ 5-94-15(35124)
वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन्।
तस्य सत्ववतः केतौ भुजगारिरशोभत ॥ 5-94-16(35125)
तस्य कीर्तिमतस्तेन भास्वरेण विराजता ।
शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना ॥ 5-94-17(35126)
रश्मिजालैः पताकाभिः सौवर्णेन च केतुना ।
बभूव स रथश्रेष्ठः कालसूर्य इवोदितः ॥ 5-94-18(35127)
पक्षिध्वजवितानैश्च रुक्मजालकृताङ्गणैः ।
दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा ॥ 5-94-19(35128)
प्रवालमणिशोभैश्च मुक्तावैडूर्यशोभनैः ।
किङ्किणीशतसङ्घैश्च वालजालकृतान्तरैः ॥ 5-94-20(35129)
कार्तस्वरमयीभिश्च पद्मिनीभिरलङ्कृतः।
शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः ॥ 5-94-21(35130)
व्याघ्रसिंहवराहैश्च गोभिश्च मृगपक्षिभिः ।
ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः ॥ 5-94-22(35131)
वज्राङ्कुशविमानैश्च कूबरावृत्तसन्धिषु ।
समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः ॥' 5-94-23(35132)
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः ॥ 5-94-24(35133)
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः ।
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥ 5-94-25(35134)
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः।
कौस्तुभं मणिमाबध्य श्रिया परमया ज्वलन् ॥ 5-94-26(35135)
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः ।
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥ 5-94-27(35136)
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्।
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम् ॥ 5-94-28(35137)
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।
द्वितीयेन रथेनैनमन्वयातां परन्तपम् ॥ 5-94-29(35138)
सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः ।
पृष्ठतोऽनुययुः कृष्णं गजैरश्वै रथैरपि ॥ 5-94-30(35139)
तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः ।
गच्छतां घोषिणश्चित्ररथा राजन्विरेजिरे ॥ 5-94-31(35140)
संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ।
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ॥ 5-94-32(35141)
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः।
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥ 5-94-33(35142)
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः।
परिवार्य रथं शौरेरगच्छन्त परन्तपाः ॥ 5-94-34(35143)
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः ।
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ॥ 5-94-35(35144)
गजाः पञ्चशतास्तत्र रथाश्चासन्सहस्रशः।
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥ 5-94-36(35145)
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् ।
सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम ॥ 5-94-37(35146)
वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः ।
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ॥ 5-94-38(35147)
स पूज्यमानः कुरुभिः संश्रृण्वन्मधुराः कथाः ।
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ॥ 5-94-39(35148)
ततः सभां समासाद्य केशवस्यानुयायिनः।
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥ 5-94-40(35149)
ततः सा समितिः सर्वा राज्ञाममिततेजसाम्।
संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥ 5-94-41(35150)
ततोऽभ्याशंगते कृष्णे समहृष्यन्नराधिपाः।
श्रुत्वां तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥ 5-94-42(35151)
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् ।
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥ 5-94-43(35152)
नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा ।
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥ 5-94-44(35153)
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः।
ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया ॥ 5-94-45(35154)
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ ।
कृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः ॥ 5-94-46(35155)
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः ।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ 5-94-47(35156)
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर।
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ 5-94-48(35157)
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे ।
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥ 5-94-49(35158)
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् ।
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥ 5-94-50(35159)
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः ।
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥ 5-94-51(35160)
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्।
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥ 5-94-52(35161)
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः।
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः। 5-94-53(35162)
ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ॥
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः । 5-94-54(35163)
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ॥
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा । 5-94-55(35164)
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ॥
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् । 5-94-56(35165)
वैशम्पायन उवाच। 5-94-57x(3671)
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् ।
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् । 5-94-57(35166)
आसनान्यथ मृष्टानि महान्ति विपुलानि च ॥
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः । 5-94-58(35167)
तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत ॥
निषसादासने कृष्णो राजानश्च यथासनम् । 5-94-59(35168)
दुःशासनः सात्यकये ददावासनमुत्तमम् ॥
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे । 5-94-60(35169)
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ॥
एकासने महात्मानौ निषीदतुरमर्षणौ । 5-94-61(35170)
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ॥
निषसादासने राजा सहपुत्रो विशांपते । 5-94-62(35171)
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ॥
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्। 5-94-63(35172)
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ॥
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्। 5-94-64(35173)
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ॥
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥ 5-94-65(35174)
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् ।
न तत्र कश्चित्किंचिद्वा व्याजहार पुमान्क्वचित् ॥ ॥ 5-94-66(35175)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्नवतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-94-31 चित्राश्च ते रथाश्च ॥ 5-94-33 एकपुष्कराः काहलाः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|